
ॐ श्रीं ह्रीं क्लीं लक्ष्मी नारायणाय नमः। ॐ श्रीं ह्रीं क्लीं लक्ष्मी नारायणाय नमः। ॐ श्रीं ह्रीं क्लीं लक्ष्मी नारायणाय नमः॥ ॥ श्री लक्ष्मीनारायण स्तोत्रम् ॥ श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल। लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥१॥ नारायण नमस्तुभ्यं त्राहि मां भवसागरात्। दामोदर महोदार सर्वापत्तिनिवारण ॥२॥ हृषीकेश नमस्तुभ्यं त्राहि मां भवसागरात् ॥३॥ गरुडध्वज वैकुंठनिवासिन् केशवाच्युत। जनार्दन नमस्तुभ्यं त्राहि मां भवसागरात् ॥४॥ शंखचक्रगदापद्मधर श्रीवत्सलाञ्छन। मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात् ॥५॥ त्वं माता त्वं पिता बन्धुः सद्गुरुस्त्वं दयानिधिः। त्वत्तोऽन्यो न परो देवस्त्राहि मां भवसागरात् ॥६॥ क्षीराम्बुराश्यादिविराट्भवाभ्यां नारं सदा पालयितुं पराभ्याम्। नित्यं युवाभ्यां नतिरस्तु लक्ष्मीनारायणाभ्यां जगतः पितृभ्याम् ॥७॥ दारिद्र्यदुःखस्थितिदारकाभ्यां दयैव दूरीकृतदुर्गतिभ्याम्। नित्यं युवाभ्यां नतिरस्तु लक्ष्मीनारायणाभ्यां जगतः पितृभ्याम् ॥८॥ भक्तव्रजाघौघविदारकाभ्यां स्वीयाशयोद्धूतरजस्तमोभ्याम्। नित्यं युवाभ्यां नतिरस्तु लक्ष्मीनारायणाभ्यां जगतः पितृभ्याम् ॥९॥ ॥ ॐ श्रीं ह्रीं क्लीं लक्ष्मी नारायणाय नमः ॥ ॐ नमो नारायणाय। ॐ नमो नारायणाय। ॐ नमो नारायणाय॥

