स्वस्तिवाचनम ( पञ्चमविधिः- स्वस्तिवाचनम्) अथ स्वस्तिवाचनम् अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् । स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ।। स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणाः । स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना || स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः । बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥ विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये । देवा अवन्त्यृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ।। मित्रावरुणा स्वस्ति पथ्ये स्वस्ति रेवति स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ।। स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव पुनर्ददताघ्नता जानता सं गमेमहि ॥ ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः । ते नो रासन्तामुरुयायमद्य यूयं पात स्वस्तिभिः सदा न ॥ येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः । उक्थशुष्मान् वृषभरान्त्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये ।। नृचक्षसो अनिमिषन्तो अर्हणा बृहद् देवासो अमृतत्वमानशुः । ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्याणं वसते स्वस्तये ।। सम्राजो ये सृवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम् । ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ अदितिं स्वस्तये । को वः स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यतिष्ठन । को वोऽध्वरं तुविजाता अरं करद् यो नः पर्षदत्यंहःस्वस्तये ।। येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः । त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथास्वस्तये ।। य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः । ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये ।। भरेष्विन्द्रं सुहवं हवामहेऽहोमुचं सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ।। सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणम दितिं सुप्रणीतिम् । दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ।। विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिहुतः । सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ।। अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः । आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये ।। अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि । यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये ।। यं देवासोऽवथ वाजसातो यं शूरसाता मरुतो हिते धने । प्रातर्यावाशां रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये ।। स्वस्ति नः पथ्यासु धन्वसु स्वस्त्य१प्सुवृजने स्वर्वति । स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ।।