
आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम् ॥ अन्तकाय मृत्यवे नमः प्राणा अपाना इह ते रमन्ताम् । इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥ इह तेऽसुरिह प्राण इहायुरिह ते मनः । उत्त्वा निर्ऋत्याः पाशेभ्यो दैव्या वचा भरामसि ॥ उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः । मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥ आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते । असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥ जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय । अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥ अयं जीवतु मा मृतेमं समीरयामसि । कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥ शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः । इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥ ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः । मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥ अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा । अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् ॥

